Tuesday, 07 Jul, 2026

देवी सिद्ध संपुट मंत्र

श्रीमार्कण्डेयपुराणान्तर्गत देवी माहात्म्य में ‘श्लोक’, ‘अर्ध श्लोक’ और ‘उवाच’ आदि मिलाकर 700 मन्त्र हैं। यह माहात्म्य दुर्गासप्तशती के नाम से प्रसिद्ध है। सप्तशती अर्थ, धर्म, काम, मोक्ष – चारों पुरुषार्थों को प्रदान करनेवाली है। जो पुरुष जिस भाव और जिस कामना से श्रद्धा एवं विधिके साथ सप्तशती का पारायण करता है, उसे उसी भावना और […]

श्री दुर्गा देव्यपराधक्षमापनस्तोत्रम् 

॥ अथ देव्यपराधक्षमापनस्तोत्रम् ॥ न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः। न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥ विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्। तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥2॥ पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः […]

देवी दुर्गा-द्वात्रिंशन्नाममाला

 अथ दुर्गाद्वात्रिंशन्नाममाला ॥ दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा। दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला॥ दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी। दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता॥ दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी। दुर्गमोहा दुर्गमगा दुर्गमार्थस्वरूपिणी॥ दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी। दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्वरी॥ दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी। नामावलिमिमां यस्तु दुर्गाया मम मानवः॥ पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः॥ ॥ इति दुर्गाद्वात्रिंशन्नाममाला सम्पूर्णम् ॥

श्रीदुर्गामानस-पूजा

॥ श्रीदुर्गामानस-पूजा ॥ उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके। आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितो मातः सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात्॥1॥ देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं चञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्। एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं गन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके॥2॥ पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशो गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम्। तत्केशान् परिशोध्य कङ्कतिकया मन्दाकिनीस्रोतसि स्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे॥3॥ सुराधिपतिकामिनीकरसरोजनालीधृतां सचन्दनसकुङ्कुमागुरुभरेण विभ्राजिताम्। महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकां गृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे॥4॥ गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज- प्रस्तारैर्ध्रियमाणमुत्तमतरं काश्मीरजापिञ्जरम्। […]

श्रीदुर्गासप्तशती -क्षमा-प्रार्थना 

॥ क्षमा-प्रार्थना ॥ अपराधसहस्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥1॥ आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न जानामि क्षम्यतां परमेश्वरि॥2॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि। यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥3॥ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्। यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥4॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके। इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु॥5॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम्। […]

श्रीदुर्गासप्तशती – मूर्तिरहस्यम् 

॥ अथ मूर्तिरहस्यम् ॥ ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा। देवी कनकवर्णाभा कनकोत्तमभूषणा॥2॥ कमलाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा। इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना॥3॥ या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ। तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम्॥4॥ रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा। रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा॥5॥ रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका। पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम्॥6॥ […]

श्रीदुर्गासप्तशती –  वैकृतिकं रहस्यम् 

॥ अथ वैकृतिकं रहस्यम् ॥ ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥1॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा। मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः॥2॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा। विशालया राजमाना त्रिंशल्लोचनमालया॥3॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप। रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः॥4॥ खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत्। परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ॥5॥ एषा सा वैष्णवी माया महाकाली दुरत्यया। आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम्॥6॥ […]

श्रीदुर्गासप्तशती – प्राधानिकं रहस्यम् 

॥ अथ प्राधानिकं रहस्यम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः। राजोवाच भगवन्नवतारा मेचण्डिकायास्त्वयोदिताः। एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि॥1॥ आराध्यं यन्मया देव्याःस्वरूपं येन च द्विज। विधिना ब्रूहि सकलंयथावत्प्रणतस्य मे॥2॥ ऋषिरुवाच इदं रहस्यं परममनाख्येयं प्रचक्षते। भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप॥3॥ सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी। लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता॥4॥ मातुलुङ्गं गदां खेटं पानपात्रं […]

 श्रीदुर्गासप्तशती- तन्त्रोक्तं देवीसूक्तम्

॥ अथ तन्त्रोक्तं देवीसूक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥1॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः। ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः॥2॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥3॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै। ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥4॥ अतिसौम्यातिरौद्रायै […]

 श्रीदुर्गासप्तशती – ऋग्वेदोक्तं देवीसूक्तम् 

॥ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॥ विनियोगः ॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ॠचो जगती, शिष्टानां त्रिष्टुप् छन्दः, देवीमाहात्म्यपाठे विनियोगः।* ॥ ध्यानम् ॥ ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः शङ्खं चक्रधनुःशरांश्च दधती नेत्रैस्त्रिभिः शोभिता। आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला॥* ॥ देवीसूक्तम्* ॥ ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः। अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥1॥ अहं सोममाहनसं बिभर्म्यहं […]