Tuesday, 07 Jul, 2026

श्रीदुर्गासप्तशती – चतुर्थोऽध्यायः 

॥ श्रीदुर्गासप्तशती – चतुर्थोऽध्यायः ॥ इन्द्रादि देवताओं द्वारा देवी की स्तुति ॥ ध्यानम् ॥ ॐ कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शड्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम्। सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः॥ “ॐ” ऋषिरुवाच*॥1॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या। तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः॥2॥ देव्या यया ततमिदं जगदात्मशक्त्या निश्शेषदेवगणशक्तिसमूहमूर्त्या। तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या […]

श्रीदुर्गासप्तशती – तृतीयोऽध्यायः

॥ श्रीदुर्गासप्तशती – तृतीयोऽध्यायः ॥ सेनापतियोंसहित महिषासुर का वध ॥ ध्यानम् ॥ ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्। हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्॥ “ॐ” ऋषिररुवाच॥1॥ निहन्यमानं तत्सैन्यमवलोक्य महासुरः। सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम्॥2॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः। यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः॥3॥ तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान्। जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्॥4॥ चिच्छेद च धनुः […]

श्रीदुर्गासप्तशती – द्वितीयोऽध्यायः

॥ श्रीदुर्गासप्तशती – द्वितीयोऽध्यायः ॥ देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध ॥ विनियोगः ॥ ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः, शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्, श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्। शूलं पाशसुदर्शने च दधतीं हस्तैः […]

 श्रीदुर्गासप्तशती – प्रथमोऽध्यायः

॥ श्रीदुर्गासप्तशती – प्रथमोऽध्यायः ॥ मेधा ऋषि का राजा सुरथ और समाधि को भगवती की महिमा बताते हुए मधु-कैटभ-वध का प्रसंग सुनाना ॥ विनियोगः ॥ ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः, महाकाली देवता, गायत्री छन्दः, नन्दा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्, ऋग्वेदः स्वरूपम्, श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः। ॥ ध्यानम् ॥ ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम्। […]