श्री शिव महिम्नः स्तोत्रं

महिम्नः पारं ते परमविदुषो यद्यसदृशी,
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः |
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ||

अतीतः पंथानं तव च महिमा वाङ्मनसयोः,
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि |
स कस्य स्तोत्रव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ||

मधुस्फीता वाचः परमममृतं निर्मितवतः,
तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् |
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः,
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ||

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्,
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु |
अभव्यानामस्मिन् वरद रमणीयामरमणीं,
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ||

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं,
किमाधारो धाता सृजति किमुपादान इति च |
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः,
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः ||

अजन्मानो लोकाः किमवयववन्तोऽपि जगतां,
अधिष्ठातारं किं भवविधिरनादृत्य भवति |
अनीशो वा कुर्याद् भुवनजनने कः परिकरो ,
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे… ||

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति,
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च |
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां ,
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ||

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः,
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् |
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां ,
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ||

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं ,
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये |
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव,
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ||

तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः ,
परिच्छेतुं यातावनिलमनलस्कन्धवपुषः |
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत् ,
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ||

अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं,
दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान् |
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः ,
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ||

अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं ,
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः |
अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि ,
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ||

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं,
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः |
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः ,
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ||

अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा ,
विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः |
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो ,
विकारोऽपि श्लाघ्यो भुवन-भय-भङ्ग-व्यसनिनः ||

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे ,
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः |
स पश्यन्नीश त्वामितरसुरसाधारणमभूत् ,
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ||

मही पादाघाताद् व्रजति सहसा संशयपदं,
पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह-गणम् |
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा ,
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ||

वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः,
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते |
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति,
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ||

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो,
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति |
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः ,
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ||

हरिस्ते सहस्रं कमल बलिमाधाय पदयोः,
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् |
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः ,
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ||

क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां,
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते |
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं ,
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ||

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां,
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः |
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः,
ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः ||

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं,
गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा |
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं,
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ||

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्,
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि |
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्,
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ||

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः,
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः |
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं ,
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ||

मनः प्रत्यक् चित्ते सविधमविधायात्त-मरुतः ,
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः |
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये ,
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ||

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः,
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च |
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं ,
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ||

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् ,
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति|
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः,
समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम् ||

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्,
तथा भीमेशानाविति यदभिधानाष्टकमिदम् |
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि,
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते ||

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः,
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः |
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः ,
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ||

बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः,
प्रबल-तमसे तत् संहारे हराय नमो नमः |
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः ,
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ||

कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं,
क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः |
इति चकितममन्दीकृत्य मां भक्तिराधाद्,
वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ||

असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे,
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी |
लिखति यदि गृहीत्वा शारदा सर्वकालं,
तदपि तव गुणानामीश पारं न याति ||

असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः,
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य |
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः,
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ||

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्,
पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः |
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र,
प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ||

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः,
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् |

दीक्षा दानं तपस्तीर्थं ज्ञानं,योगादिकाः क्रियाः |
महिम्नस्तव पाठस्य कलां, नार्हन्ति षोडशीम् ||

कुसुमदशन-नामा सर्व-गन्धर्व-राजः,
शशिधरवर-मौलेर्देवदेवस्य दासः|
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्,
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्न : ||

सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं,
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः |
व्रजति शिव-समीपं किन्नरैः स्तूयमानः,
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ||

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्,
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् |

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः,
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ||

तव तत्त्वं न जानामि कीदृशोऽसि महेश्व र,
यादृशोऽसि महादेव तादृशाय नमो नम ः |

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः,
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ||

श्री पुष्पदन्त-मुख-पंकज-निर्गतेन,
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण |
कण्ठस्थितेन पठितेन समाहितेन,
सुप्रीणितो भवति भूतपतिर्महेशः ||

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *