सरस्वती द्वादश नाम स्तोत्र
सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणीम्।
हंसवाहसमायुक्तां विद्यादानकरी मम॥ १॥
प्रथमं भारती नाम द्वितीयं च सरस्वती।
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी॥ २॥
पंचमं जगती ख्याता षष्ठं वागीश्वरी तथा।
कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी॥ ३॥
नवमं बुद्धिदात्री च दशमं वरदायिनी।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी॥ ४॥
ब्राह्मी द्वादशनामानि त्रिसंध्यं यः पठेन्नरः।
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी।
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती॥ ५॥
॥ इति सरस्वती द्वादश नाम स्तोत्रं सम्पूर्णम् ॥