सूर्य कवच
श्री गणेशाय नमः:
शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम्।
शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम्॥1॥
दीप्तिमानं मुकुटं स्फुरन्मकरकुण्डलम्।
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्॥2॥
शिरो मे भास्करः पातु ललाटे भानुमण्डलम्।
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः॥3॥
घ्राणं धर्मध्वजः पातु वदनं वेदवाहनः।
जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः॥4॥
स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः।
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः॥5॥
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके।
दधाति यः करे तस्य वशगाः सर्वसिद्धयः॥6॥
सुस्नातो यो जपेत्सम्यक् योऽधीत्य स्वस्थमानसः।
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति॥7॥
॥ इति सूर्य कवच सम्पूर्णम् ॥