घोररूपे महारावे सर्वशत्रुभयंकरि।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम्॥1॥
ॐ सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते।
जाड्यापहारे देवि त्राहि मां शरणागतम्॥2॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम्॥3॥
सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम्॥4॥
जडानां जडतां हन्ति भक्तानां भक्तवत्सला।
मूढतां हर मे देवि त्राहि मां शरणागतम्॥5॥
वं ह्रीं क्लीं कामये देवि बलिहोमप्रिये नमः।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम्॥6॥
बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे।
मूढत्वं च हर देवि त्राहि मां शरणागतम्॥7॥
इन्द्रादिविलसद्वन्द्वे वन्दिते करुणामयि।
तारे ताराधिनाथस्य त्राहि मां शरणागतम्॥8॥
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः।
षन्मासैः सिद्धिमाप्नोति नात्र कार्य विचारणा॥9॥