॥ ॐ शिव रक्षा स्तोत्र ॥

॥ ॐ शिव रक्षा स्तोत्र ॥

चरितं देवदेवस्य महादेवस्य पावनम्।
अपारं परमादारं चतुर्वर्गस्य साधनम्॥1॥

गौरीविनायकयोर्वन्द्यं पंचवक्त्रं त्रिनेत्रकम्।
शिवं ध्यायेद्दशभुजं शिवरक्षां पठेन्नरः॥2॥

गंगाधरं शिरः पातु भालं अर्धेन्दुशेखरः।
नयनें मदनध्वंसी कर्णो सर्पविभूषणः॥3॥

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः।
जिह्वां वागीश्वरः पातु कण्ठं शशिकण्ठरः॥4॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरंधरः।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक्॥5॥

हृदयं शंकरः पातु जठरं गिरिजापतिः।
नाभिं मृत्युञ्जयः पातु कटिं व्याघ्राजिनाम्बरः॥6॥

सक्थिनी पातु देवेशो जंघे पातु जगदीश्वरः।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः॥7॥

जंघे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः॥8॥

एतां शिवबलोपेतां रक्षा यः सुकृती पठेत्।
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात्॥9॥

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये।
दूरादाशु पलायन्ते शिवनामस्मरणात्॥10॥

अभयंकरनामेदं कवचं पार्वतीपतेः।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम्॥11॥

इमां नारायणः स्वप्ने शिवरक्षां यथादिशत्।
प्रातःकाले पठेद्यस्तु सर्वत्र विजयी भवेत्॥12॥

॥ इति श्रीशिवबलप्रयोगे शिवरक्षास्तोत्रं सम्पूर्णम् ॥

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *